HomeUpanishadsSarvasaraVerse 17
Previous Verse
Next Verse

Verse 17

Sarvasara

नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु ।

न बुद्धिर्न मनः शश्वन्नाहङ्कारस्तथैव च ॥

अप्राणो ह्यमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा ।

साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं न संशयः ॥

नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः ।

मत्सान्निध्यात्प्रवर्तन्ते देहाद्या अजडा इव ॥

स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः ।

आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥

ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् ।

रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् ॥

न । अहम् । भवामि । अहम् । देवः । न । इन्द्रियाणि । दश । एव । तु ।

न । बुद्धिः । न । मनः । शश्वत् । न । अहङ्कारः । तथा । एव । च ।

अ-प्राणः । हि । अ-मनाः । शुभ्रः । बुद्धि-आदीनाम् । हि । सर्वदा ।

साक्षी । अहम् । सर्वदा । नित्यः । चित्-मात्रः । अहम् । न । संशयः ।

न । अहम् । कर्ता । न । एव । भोक्ता । प्रकृतेः । साक्षि-रूपकः ।

मत्-सान्निध्यात् । प्रवर्तन्ते । देह-आद्याः । अ-जडाः । इव ।

स्थाणुः । नित्यः । सदा-आनन्दः । शुद्धः । ज्ञान-मयः । अमलः ।

आत्मा । अहम् । सर्व-भूतानाम् । विभुः । साक्षी । न । संशयः ।

ब्रह्म । एव । अहम् । सर्व-वेदान्त-वेद्यम् । न । अहम् । वेद्यम् । व्योम-वात-आदि-रूपम् ।

रूपम् । न । अहम् । नाम । न । अहम् । न । कर्म । ब्रह्म । एव । अहम् । सत्-चित्-आनन्द-रूपम् ।

nāhaṃ bhavāmy ahaṃ devo nendriyāṇi daśaiva tu |

na buddhir na manaḥ śaśvan nāhaṅkāras tathaiva ca ||

aprāṇo hy amanāḥ śubhro buddhyādīnāṃ hi sarvadā |

sākṣy ahaṃ sarvadā nityaś cinmātro ’haṃ na saṃśayaḥ ||

nāhaṃ kartā naiva bhoktā prakṛteḥ sākṣirūpakaḥ |

matsānnidhyāt pravartante dehādyā ajadā iva ||

sthāṇur nityaḥ sadānandaḥ śuddho jñānamayo ’malaḥ |

ātmāhaṃ sarvabhūtānāṃ vibhuḥ sākṣī na saṃśayaḥ ||

brahmaivāhaṃ sarvavedāntavedyaṃ nāhaṃ vedyaṃ vyomavātādirūpam |

rūpaṃ nāhaṃ nāma nāhaṃ na karma brahmaivāhaṃ saccidānandarūpam ||

नाहं भवामि, न देवोऽहं, न दशेन्द्रियसमूहः। न बुद्धिर्न मनः शश्वत्, नाहङ्कारोऽपि मेऽस्ति॥ अप्राणोऽहममनाः शुद्धः, बुद्ध्यादिवृत्तिभ्यः सदा परः। नित्यं साक्षी चिदेवाहं, चिन्मात्रोऽहं न संशयः॥ नाहं कर्ता न भोक्ता च, प्रकृतेः साक्षिरूपकः। मत्सान्निध्येन देहाद्याः प्रवर्तन्तेऽजडा इव॥ स्थाणुर्नित्यः सदानन्दः, शुद्धो ज्ञानमयोऽमलः। आत्माहं सर्वभूतानां, विभुः साक्षी न संशयः॥ ब्रह्मैवाहं सर्ववेदान्तवेद्यं, नाहं वेद्यं व्योमवातादिरूपम्। न रूपं न नाम न कर्म, ब्रह्मैवाहं सच्चिदानन्दरूपम्॥

I am not a becoming entity; I am not a god; nor am I the ten senses. I am not the intellect, not the mind; nor indeed the ego-sense. I am without vital-breath and without mind, pure, ever beyond (the modifications of) intellect and the rest. I am ever the witness, eternal, consciousness alone—without doubt. I am not the agent, nor the enjoyer; I am of the nature of the witness of Prakṛti. By my mere presence the body and the rest function, as though non-inert. I am immovable, eternal, ever-blissful, pure, consisting of knowledge, stainless. I am the Self of all beings, all-pervading, the witness—without doubt. I am Brahman alone, knowable through all Vedānta; I am not an object of knowledge such as space, wind, and the like. I am not form, not name, not action; I am Brahman alone, whose nature is Existence–Consciousness–Bliss.

Neti-neti leading to Brahman-realization; sākṣitva; nirguṇa BrahmanMahavakya: Explicit ‘brahmaivāham’ resonates with ‘ahaṃ brahmāsmi’; also harmonizes with ‘prajñānaṃ brahma’ by defining the Self as cinmātra (consciousness alone).AtharvaChandas: Mixed/irregular; largely anuṣṭubh-like with an extended concluding line; often treated as metrical composite rather than strict Vedic meter.