Sarvasara
ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववशिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते॥१०॥
ब्रह्म-आदि-पिपीलिका-पर्यन्तम् । सर्व-प्राणि-बुद्धिषु । अवशिष्टतया । उपलभ्यमानः । सर्व-प्राणि-बुद्धि-स्थः । यदा । तदा । कूटस्थः । इति । उच्यते ॥१०॥
brahmādi-pipīlikā-paryantaṃ sarva-prāṇi-buddhiṣv avaśiṣṭatayopalabhyamānaḥ sarva-prāṇi-buddhi-stho yadā tadā kūṭastha ity ucyate ||10||
ब्रह्मादिपिपीलिकापर्यन्तं सर्वेषां प्राणिनां बुद्धिषु यदवशिष्टतया नित्यं प्रत्यवभासते, सर्वप्राणिबुद्धिस्थं तदेव यदा तदा “कूटस्थः” इति कथ्यते।
That which, from Brahmā down to the ant, is apprehended as the residual (unchanging) remainder in the intellects of all beings—being present in the intellect of every living creature—then and in that respect is called “kūṭastha” (the immutable, abiding Self).