Mundaka
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मण वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥८॥
न । चक्षुषा । गृह्यते । न । अपि । वाचा । न । अन्यैः । देवैः । तपसा । कर्मणः । वा । ज्ञान-प्रसादेन । विशुद्ध-सत्त्वः । ततः । तु । तम् । पश्यते । निष्कलम् । ध्यायमानः ॥८॥
na cakṣuṣā gṛhyate nāpi vācā nānyair devais tapasā karmaṇo vā | jñānaprasādena viśuddhasattvas tatas tu taṃ paśyate niṣkalaṃ dhyāyamānaḥ ||8||
न चक्षुषा गृह्यते, न वाचा, नान्यैर्देवैः (इन्द्रियैः), न तपसा, न कर्मणा। ज्ञानप्रसादेन विशुद्धसत्त्वः, ध्यायमानः, निष्कलं तं ततो पश्यति॥८॥
It is not grasped by the eye, nor even by speech, nor by other deities (i.e., senses); not by austerity, nor by ritual action. But by the clarity (grace) of knowledge, one whose sattva is purified—then, meditating, sees That partless (Brahman).