HomeUpanishadsMundakaVerse 12
Previous Verse
Next Verse

Verse 12

Mundaka

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥१२॥

परीक्ष्य । लोकान् । कर्म-चितान् । ब्राह्मणः । निर्वेदम् । आयात् । न । अस्ति । अकृतः । कृतेन ।

तत्-विज्ञान-अर्थम् । सः । गुरुम् । एव । अभिगच्छेत् । समित्-पाणिः । श्रोत्रियम् । ब्रह्म-निष्ठम् ॥१२॥

parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena |

tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham ||12||

कर्मचितान् लोकान् परीक्ष्य ब्राह्मणः निर्वेदम् आयात्—कृतेन अकृतं न लभ्यते। तद्विज्ञानार्थं स गुरुमेव अभिगच्छेत्, समित्पाणिः, श्रोत्रियं ब्रह्मनिष्ठम्॥१२॥

Having examined the worlds attained through action, the brāhmaṇa (seeker) should arrive at dispassion: the unmade (akṛta) is not (attained) by what is made/done (kṛta). For the sake of knowing That, he should approach a teacher alone, with fuel in hand—one who is learned in the tradition (śrotriya) and established in Brahman (brahmaniṣṭha).

Vairāgya and Guru-upasatti for Brahma-vidyā; akṛta (unconditioned) vs kṛta (conditioned)Mahavakya: Strongly supportive (methodological): establishes the necessity of brahma-jñāna and a competent guru for realizing identity teachings like ‘अहं ब्रह्मास्मि’ / ‘तत् त्वम् असि’.AtharvaŚaunaka (Atharvaveda) ShakhaChandas: Triṣṭubh