Previous Verse
Next Verse

Verse 3

Kalagnirudra

तं होवाच भगवान्कालाग्निरुद्रः—यद्द्रव्यं तदाग्नेयं भस्म। सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्य—अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म—इत्यनेनाभिमन्त्र्य। मानस्तोक इति समुद्धृत्य, मा नो महान्तमिति जलेन संसृज्य, त्रियायुषमिति शिरोललाटवक्षःस्कन्धेषु त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक्तिस्रो रेखाः प्रकुर्वीत। व्रतमेतच्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति। तस्मात्तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय॥ अथ सनत्कुमारः पप्रच्छ—प्रमाणमस्य त्रिपुण्ड्रधारणस्य? त्रिधा रेखा भवत्याललाटादाचक्षुषोरामूर्ध्नोराभ्रुवोर्मध्यतश्च॥३-५॥

तम् । ह । उवाच । भगवान् । कालाग्निरुद्रः । यत् । द्रव्यम् । तत् । आग्नेयम् । भस्म । सद्योजात-आदि-पञ्च-ब्रह्म-मन्त्रैः । परिगृह्य । अग्निः-इति । भस्म । वायुः-इति । भस्म । जलम्-इति । भस्म । स्थलम्-इति । भस्म । व्योम-इति । भस्म । इति । अनेन । अभिमन्त्र्य । मानः-तोकः-इति । समुद्धृत्य । मा । नः । महान्तम्-इति । जलेन । संसृज्य । त्रि-आयुषम्-इति । शिरः-ललाट-वक्षः-स्कन्धेषु । त्रि-आयुषैः । त्र्यम्बकैः । त्रि-शक्तिभिः । तिर्यक् । तिस्रः । रेखाः । प्रकुर्वीत । व्रतम् । एतत् । शाम्भवम् । सर्वेषु । देवेषु । वेद-वादिभिः । उक्तम् । भवति । तस्मात् । तत् । समाचरेत् । मुमुक्षुः । न । पुनः-भवाय । अथ । सनत्-कुमारः । पप्रच्छ । प्रमाणम् । अस्य । त्रि-पुण्ड्र-धारणस्य । त्रिधा । रेखा । भवति । आ-ललाटात् । आ-चक्षुषोः । आ-मूर्ध्नोः । आ-भ्रुवोः । मध्यतः । च ॥३-५॥

taṁ hovāca bhagavān kālāgnirudraḥ—yad dravyaṁ tad āgneyam bhasma | sadyojātādi-pañcabrahma-mantraiḥ parigṛhya—agnir iti bhasma, vāyur iti bhasma, jalam iti bhasma, sthalam iti bhasma, vyometi bhasma—ity anenābhimantrya | mānas toka iti samuddhṛtya, mā no mahāntam iti jalena saṁsṛjya, triyāyuṣam iti śiro-lalāṭa-vakṣaḥ-skandheṣu triyāyuṣais tryambakais triśaktibhis tiryak tisro rekhāḥ prakurvīta | vratam etac chāmbhavaṁ sarveṣu deveṣu vedavādibhir uktaṁ bhavati | tasmāt tat samācaren mumukṣur na punar-bhavāya || atha sanatkumāraḥ papraccha—pramāṇam asya tripuṇḍra-dhāraṇasya? tridhā rekhā bhavaty ā-lalāṭād ā-cakṣuṣor ā-mūrdhnor ā-bhruvor madhyataś ca ||3-5||

तं होवाच भगवान्कालाग्निरुद्रः—यद्द्रव्यं तदाग्नेयं भस्म। सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्य, ‘अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म’ इत्यनेनाभिमन्त्र्य। ‘मानस्तोक’ इति समुद्धृत्य, ‘मा नो महान्तम्’ इति जलेन संसृज्य, ‘त्रियायुषम्’ इति शिरोललाटवक्षःस्कन्धेषु त्रियायुष-त्र्यम्बक-त्रिशक्तिमन्त्रैः तिर्यग् तिस्रो रेखाः प्रकुर्वीत। व्रतमेतच्छाम्भवं वेदवादिभिः सर्वेषु देवेषु उक्तं भवति। तस्मात् मुमुक्षुः पुनर्भवाभावाय तत्समाचरेत्। अथ सनत्कुमारः पप्रच्छ—त्रिपुण्ड्रधारणस्य प्रमाणं किम्? त्रिधा रेखा—ललाटे नेत्रान्तपर्यन्तं, मूर्ध्नि शिरोपर्यन्तं, भ्रुवोर्मध्यं च प्रमाणम्॥३-५॥

The Blessed Kālāgnirudra said to him: “The substance is fiery—ash. Having taken it up with the Pañcabrahma mantras beginning with Sadyojāta, and having consecrated it with (the formulas) ‘Agni is ash, Vāyu is ash, water is ash, earth is ash, space is ash,’—having lifted (the ash) with the mantra ‘mā nas toka…,’ and having mixed it with water with (the mantra) ‘mā no mahāntam…,’ one should make three horizontal lines with (the mantras) ‘triyāyuṣam…,’ on the head, forehead, chest, and shoulders, with the (invocations) triyāyuṣa, tryambaka, and triśakti. This observance is Śāmbhava; it is declared by the exponents of the Veda among all the gods. Therefore the seeker of liberation should practice it for non-return (freedom from rebirth). Then Sanatkumāra asked: ‘What is the measure of wearing the tripuṇḍra?’ (He replied:) ‘The three lines are made—on the forehead up to the eyes, up to the crown of the head, and from the middle of the eyebrows (as the central reference).’

Mokṣa (non-return) supported by śuddhi and upāsanā; pañcabrahma as Brahman/Rudra theology; body as kṣetra for sādhanāMahavakya: Indirect: emphasizes mumukṣutva and purification for Brahma-jñāna; aligns in spirit with identity-teachings (e.g., ‘ayam ātmā brahma’) by sacralizing the body-mind as a locus for non-dual contemplation, but does not quote a MahāvākyaAtharvaChandas: Mixed: largely prose with embedded mantra-citations; overall Upaniṣadic prose instruction