Kaivalya
अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥
अणोः । अणीयान् । अहम् । एव । तत्-वत् । महान् । अहम् । विश्वम् । अहम् । विचित्रम् ।
पुरातनः । अहम् । पुरुषः । अहम् । ईशः । हिरण्मयः । अहम् । शिव-रूपम् । अस्मि ।
aṇor aṇīyān aham eva tadvan mahān ahaṃ viśvam ahaṃ vicitram |
purātano ’haṃ puruṣo ’ham īśo hiraṇmayo ’haṃ śivarūpam asmi ||
अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् । पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥
Smaller than the small am I indeed; likewise greater than the great. I am the universe; I am the manifold (wondrous). I am the ancient one; I am the Puruṣa; I am the Lord. I am of golden radiance; I am of the nature (form) of Śiva.