Kaivalya
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥१८-१९॥
त्रिषु । धामसु । यत्-भोग्यम् । भोक्ता । भोगः । च । यत् । भवेत् । तेभ्यः । विलक्षणः । साक्षी । चित्-मात्रः । अहम् । सदा-शिवः ॥
मयि । एव । सकलम् । जातम् । मयि । सर्वम् । प्रतिष्ठितम् । मयि । सर्वम् । लयम् । याति । तत् । ब्रह्म । अद्वयम् । अस्मि । अहम् ॥
triṣu dhāmasu yad bhogyaṃ bhoktā bhogaś ca yad bhavet | tebhyo vilakṣaṇaḥ sākṣī cinmātro 'haṃ sadāśivaḥ ||
mayy eva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭhitam | mayi sarvaṃ layaṃ yāti tad brahmādvayam asmy aham ||18-19||
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत्, तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः। मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम्, मयि सर्वं लयं याति—तद्ब्रह्माद्वयमस्म्यहम्।
In the three abodes (states), whatever may be the object of enjoyment, the enjoyer, and the enjoyment—distinct from them (all) am I, the witness, of the nature of consciousness alone; I am Sadāśiva. In me alone has all arisen; in me all is established; in me all goes to dissolution. That non-dual Brahman am I.