HomeUpanishadsJaabaalVerse 6
Previous Verse

Verse 6

Jaabaal

तत्र परमहंसानामसंवर्तक-कारुणि-श्वेतकेतु-दुर्वास-ऋभु-निदाघ-जड-भरत-दत्तात्रेय-रैवतक-प्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीतं च—इत्येतत्सर्वं “भूः स्वाहा” इत्यप्सु परित्यज्य आत्मानमन्विच्छेत् । यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे सम्यक्सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन् उदरपात्रेण लाभालाभयोः समो भूत्वा शून्यागार-देवगृह-तृणकूट-वल्मीक-वृक्षमूल-कुलालशाला-निहोत्रगृह-नदीपुलिन-गिरिकुहर-कन्दर-कोटर-निर्झर-स्थण्डिलेषु तेष्वनिकेतवासी प्रयत्नो निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति—स परमहंसो नाम, परमहंसो नामेति ॥६॥

तत्र । परमहंसानाम् । असंवर्तक-कारुणि-श्वेतकेतु-दुर्वास-ऋभु-निदाघ-जड-भरत-दत्तात्रेय-रैवतक-प्रभृतयः । अव्यक्त-लिङ्गाः । अव्यक्त-आचाराः । अनुन्मत्ताः । उन्मत्त-वद् । आचरन्तः । त्रि-दण्डम् । कमण्डलुम् । शिक्यम् । पात्रम् । जल-पवित्रम् । शिखाम् । यज्ञोपवीतम् । च । इति । एतत् । सर्वम् । भूः । स्वाहा । इति । अप्सु । परित्यज्य । आत्मानम् । अन्विच्छेत् । यथा । जातरूप-धरः । निर्ग्रन्थः । निष्परिग्रहः । तत्-तत् । ब्रह्म-मार्गे । सम्यक्-सम्पन्नः । शुद्ध-मानसः । प्राण-सन्धारण-अर्थम् । यथा-उक्त-काले । विमुक्तः । भैक्षम् । आचरन् । उदर-पात्रेण । लाभ-अलाभयोः । समः । भूत्वा । शून्य-आगार । देव-गृह । तृण-कूट । वल्मीक । वृक्ष-मूल । कुलाल-शाला । निहोत्र-गृह । नदी-पुलिन । गिरि-कुहर । कन्दर । कोटर । निर्झर । स्थण्डिलेषु । तेषु । अनिकेत-वासी । प्रयत्नः । निर्ममः । शुक्ल-ध्यान-परायणः । अध्यात्म-निष्ठः । अशुभ-कर्म-निर्मूलन-परः । संन्यासेन । देह-त्यागम् । करोति । सः । परमहंसः । नाम । परमहंसः । नाम । इति ।

tatra paramahaṃsānām asaṃvartaka-kāruṇi-śvetaketu-durvās-ṛbhu-nidāgha-jaḍa-bharata-dattātreya-raivataka-prabhṛtayo'vyaktaliṅgā avyaktācārā anunmattā unmatta-vad ācarantaḥ tridaṇḍaṃ kamaṇḍaluṃ śikyaṃ pātraṃ jalapavitraṃ śikhāṃ yajñopavītaṃ ca—ity etat sarvaṃ “bhūḥ svāhā” ity apsu parityajya ātmānam anvicchet | yathā jātarūpadharo nirgrantho niṣparigrahas tat-tad brahmamārge samyak-sampannaḥ śuddhamānasaḥ prāṇasandhāraṇārthaṃ yathoktakāle vimukto bhaikṣam ācaran udarapātreṇa lābhālābhayoḥ samo bhūtvā śūnyāgāra-devagṛha-tṛṇakūṭa-valmīka-vṛkṣamūla-kulālaśālā-nihotragṛha-nadīpulina-girikuha-ra-kandara-koṭara-nirjhara-sthaṇḍileṣu teṣv aniketavāsī prayatno nirmamaḥ śukladhyānaparāyaṇo'dhyātmaniṣṭho'śubhakarmanirmūlanaparaḥ saṃnyāsena dehatyāgaṃ karoti—sa paramahaṃso nāma, paramahaṃso nāmeti ||6||

तत्र परमहंसानामसंवर्तक-कारुणि-श्वेतकेतु-दुर्वास-ऋभु-निदाघ-जड-भरत-दत्तात्रेय-रैवतक-प्रभृतयः अव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः—त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं “भूः स्वाहा” इत्यप्सु परित्यज्य आत्मानमन्विच्छेत्। यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहः, तथा ब्रह्ममार्गे सम्यक्सम्पन्नः शुद्धमानसः—प्राणसन्धारणार्थं यथोक्तकाले विमुक्तः—भैक्षमाचरन् उदरपात्रेण लाभालाभयोः समः। शून्यागार-देवगृह-तृणकूट-वल्मीक-वृक्षमूल-कुलालशाला-निहोत्रगृह-नदीपुलिन-गिरिकुहर-कन्दर-कोटर-निर्झर-स्थण्डिलेषु अनिकेतवासी, प्रयत्नो निर्ममः, शुक्लध्यानपरायणः, अध्यात्मनिष्ठः, अशुभकर्मनिर्मूलनपरः—संन्यासेन देहत्यागं करोति; स परमहंसो नाम, परमहंसो नामेति॥६॥

There, among the paramahaṃsas—such as Asaṃvartaka, Kāruṇi, Śvetaketu, Durvāsas, Ṛbhu, Nidāgha, Jaḍa, Bharata, Dattātreya, Raivataka, and others—(they are) with unmanifest marks and unmanifest conduct; not mad, yet behaving like the mad. Having cast into water, with the utterance ‘bhūḥ svāhā,’ the triple staff, water-pot, sling-bag, bowl, water-strainer, topknot, and sacred thread—having abandoned all these—one should seek the Self. Like one wearing gold (yet) free from knots, without possessions—thus fully accomplished on the path to Brahman, with purified mind—released at the proper time for the maintenance of life-breath, practicing alms, using the belly as the vessel, equal in gain and non-gain, dwelling without a home in empty houses, temples, haystacks, anthills, at the roots of trees, potters’ sheds, sacrificial houses, riverbanks, mountain caves, caverns, hollows, waterfalls, and bare ground—striving, without ‘mine,’ devoted to pure meditation, established in the inner Self, intent on uprooting inauspicious karma—he relinquishes the body through renunciation; he is called a paramahaṃsa, he is called a paramahaṃsa.

Paramahaṃsa-saṃnyāsa; nirahaṅkāra/nirmamatva; ātma-anveṣaṇa (seeking the Self) as the sole markMahavakya: Indirect: the ‘seek the Self’ imperative presupposes the Upaniṣadic identity of Self and Brahman (closest in spirit to ‘ahaṃ brahmāsmi’), but no explicit mahāvākya is quoted.YajurŚukla (Vājasaneyin) ShakhaChandas: Prose