Brahmavidya
तस्य दास्यं सदा कुर्यात् प्रज्ञया परया सह । शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि ॥
तस्य । दास्यम् । सदा । कुर्यात् । प्रज्ञया । परया । सह । शुभम् । वा । अशुभम् । अन्यत् । वा । यत्-उक्तम् । गुरुणा । भुवि ॥
tasya dāsyaṃ sadā kuryāt prajñayā parayā saha | śubhaṃ vā'śubham anyad vā yad uktaṃ guruṇā bhuvi ||
तस्मै गुरवे परया प्रज्ञया सह नित्यं दास्यं कुर्यात्। शुभमशुभं वा अन्यद्वा गुरुणा भुवि यदुक्तं तत्।
One should always render service to him (that teacher), together with the highest understanding. Whether auspicious or inauspicious, or anything else that is spoken by the guru on earth—