Aitreya
स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत्॥६॥
सः । एवम् । विद्वान् । अस्मात् । शरीर-भेदात् । ऊर्ध्वः । उत्-क्रम्य । अमुष्मिन् । स्वर्गे । लोके । सर्वान् । कामान् । आप्त्वा । अमृतः । सम्-अभवत् । सम्-अभवत् ।
sa evaṃ vidvān asmāc charīrabhedād ūrdhva utkramyāmuṣmin svarge loke sarvān kāmān āptvā’mṛtaḥ samabhavat samabhavat ||6||
स एवं विद्वान् अस्मात् शरीरभेदात् ऊर्ध्वम् उत्क्रम्य, अमुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा, अमृतः समभवत्—समभवत्॥६॥
Thus, one who knows in this way—after the breaking up of the body—having ascended upward, and having attained all desires in that heavenly world, became immortal; indeed, became (immortal).