अ॒प्स्वन्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॒ भव॑त वा॒जिन॑: । देवी॑रापो॒ यो व॑ ऊ॒र्मिः प्रतू॑र्तिः क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाज॑ᳪ सेत्
apsv ántar amṛ́tam apsú bheṣajám apā́m utá práśastiṣv áśvā bhavata vājínaḥ | devī́r ā́po yó va ūrmíḥ pratū́rtiḥ kakúnmān vājasā́s ténāyáṃ vā́jaṃ set
अप्स्वन्तरमृतम्; अप्सु भेषजम्; अपामुत प्रशस्तिष्वश्वा भवत वाजिनः। देवीरापो, यो व ऊर्मिः प्रतूर्तिः ककुन्मान्, वाजसास्तेनायं वाजं सेत्।
अ॒प्सु । अ॒न्तः । अ॒मृत॑म् । अ॒प्सु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्रश॑स्तिषु । अश्वाः॑ । भव॑त । वा॒जिनः॑ । देवीः॑ । आपः॑ । यः । वः॑ । ऊ॒र्मिः । प्र॒तू॒र्तिः । क॒कुन्मा॑न् । वाज॒साः । तेन॑ । अ॒यम् । वाज॑म् । से॒त्