मि॒त्रो नवा॑क्षरेण त्रि॒वृत॒ᳪ स्तोम॒मुद॑जय॒त्तमुज्जे॑षं॒ वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त्तामुज्जे॑ष॒मिन्द्र॒ ए॒काद॑शाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त्तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तामुज्जे॑षम्
mitró návākṣareṇa trivṛ́taṃ stómam úd ajayat tám ujjéṣaṃ váruṇo dáśākṣareṇa virā́jam úd ajayat tā́m ujjéṣam índra ekā́daśākṣareṇa triṣṭúbham úd ajayat tā́m ujjéṣaṃ víśve devā́ dvā́daśākṣareṇa jagátīm úd ajayan tā́m ujjéṣam
मित्रो नवाक्षरेण त्रिवृतं स्तोमम् उदजयत्; तम् अहम् उज्जेषम्। वरुणो दशाक्षरेण विराजम् उदजयत्; ताम् अहम् उज्जेषम्। इन्द्र एकादशाक्षरेण त्रिष्टुभम् उदजयत्; ताम् अहम् उज्जेषम्। विश्वे देवा द्वादशाक्षरेण जगतीम् उदजयन्; ताम् अहम् उज्जेषम्।
मि॒त्रः । नव-अ॑क्षरेण । त्रि॒वृत॑म् । स्तोम॑म् । उद॑जयत् । तम् । उ॒ज्जे॑षम् । वरु॑णः । दश-अ॑क्षरेण । वि॒राज॑म् । उद॑जयत् । ताम् । उ॒ज्जे॑षम् । इन्द्रः । एकाद॑श-अ॑क्षरेण । त्रि॒ष्टुभ॑म् । उद॑जयत् । ताम् । उ॒ज्जे॑षम् । विश्वे॑ दे॒वाः । द्वाद॑श-अ॑क्षरेण । जग॑तीम् । उद॑जयन् । ताम् । उ॒ज्जे॑षम् ।