अग्ने॒ अच्छा॑ वदे॒ह न॒: प्रति॑ नः सु॒मना॑ भव । प्र नो॑ यच्छ सहस्रजि॒त्त्वᳪ हि ध॑न॒दा असि॒ स्वाहा॑
agnḗ ácchā vada iha naḥ práti naḥ sumánā bhava | prá no yaccha sahasrajít tvaṃ hí dhanadā́ asi svā́hā
अग्ने, अस्मान् अच्छावदेह; अस्मासु सुमना भव। अस्मभ्यं सहस्रजितं प्र यच्छ; त्वं हि धनदाऽसि—स्वाहा।
अग्ने । अच्छा । वद । इह । नः । प्रति । नः । सु-मनाः । भव । प्र । नः । यच्छ । सहस्र-जित् । त्वम् । हि । धन-दाः । असि । स्वाहा ।