बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत । इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत
bṛ́haspate vā́jaṃ jaya bṛ́haspátaye vā́caṃ vadata bṛ́haspátiṃ vā́jaṃ jāpayata | índra vā́jaṃ jayéndrāya vā́caṃ vadaténdraṃ vā́jaṃ jāpayata |
हे बृहस्पते, वाजं जय; बृहस्पतये वाचं वदत; वाजाय बृहस्पतिं जापयत। हे इन्द्र, वाजं जय; इन्द्राय वाचं वदत; वाजाय इन्द्रं जापयत।
बृह॑स्पते । वाज॑म् । ज॒य॒ । बृह॒स्पत॑ये । वाच॑म् । व॒द॒त॒ । बृह॒स्पति॑म् । वाज॑म् । जा॒प॒य॒त॒ ।
इन्द्र॑ । वाज॑म् । ज॒य॒ । इन्द्रा॑य । वाच॑म् । व॒द॒त॒ । इन्द्र॑म् । वाज॑म् । जा॒प॒य॒त॒ ।