उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा गाय॒त्रच्छ॑न्दसं गृह्णामीन्द्रा॑य त्वा त्रि॒ष्टुप्छ॑न्दसं गृह्णामि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जग॑च्छन्दसं गृह्णाम्यनु॒ष्टुप्ते॑ऽभिग॒रः
upayā́magṛhīto ’sy agnáye tvā gāyatrácchandasaṃ gṛhṇāmi | índrāya tvā triṣṭúpcchandasaṃ gṛhṇāmi | víśvebhyas tvā devébhyo jágacchandasaṃ gṛhṇāmi | anuṣṭúp te ’bhigaráḥ
उपयामगृहीतोऽसि। अग्नये त्वा गायत्रच्छन्दसं गृह्णामि; इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि; विश्वेभ्यो देवेभ्यस्त्वा जगच्छन्दसं गृह्णामि। अनुṣ्टुप् तेऽभिगरः।
उपयाम-गृहीतः । असि । अग्नये । त्वा । गायत्र-छन्दसम् । गृह्णामि । इन्द्राय । त्वा । त्रिष्टुप्-छन्दसम् । गृह्णामि । विश्वेभ्यः । त्वा । देवेभ्यः । जगत्-छन्दसम् । गृह्णामि । अनुष्टुप् । ते । अभिगरः ।