इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा तौ ते भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् । तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑
índraś ca samrā́ḍ váruṇaś ca rājā táu te bhákṣaṃ cakratúr ágre etám | táyor ahám ánu bhákṣaṃ bhakṣayāmi vā́gdevī júṣāṇā sómasya tṛ́pyatu sahá prāṇéna svā́hā
इन्द्रश्च सम्राड् वरुणश्च राजा; तौ ते भक्षं चक्रतुरग्र एतम्। तयोर्हमನು भक्षं भक्षयामि; वाग्देवी जुषाणा सोमस्य तृप्यतु सह प्राणेन स्वाहा।
इन्द्रः । च । सम्राट् । वरुणः । च । राजा । तौ । ते । भक्षम् । चक्रतुः । अग्रे । एतम् । तयोः । अहम् । अनु । भक्षम् । भक्षयामि । वाक्-देवी । जुषाणा । सोमस्य । तृप्यतु । सह । प्राणेन । स्वाहा