इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् । उ॒प॒या॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा षोड॒शिने॑ । ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑
índram íd dhárī vahato ’pratidhṛ́ṣṭaśavasaṃ | ṛ́ṣīṇāṃ ca stutī́r úpa yajñáṃ ca mā́nuṣāṇām | upayā́magṛhīto ’sī́ndrāya tvā ṣoḍaśíne | eṣá te yónir índrāya tvā ṣoḍaśíne
इन्द्रमेव हरी वहतः—अप्रतिधृष्टशवसम्—ऋषीणां स्तुतीरुप, मानुषाणां च यज्ञम्। उपयामगृहीतोऽसि इन्द्राय त्वा षोडशिने; एष ते योनिरिन्द्राय त्वा षोडशिने।
इन्द्रम् । इत् । हरी । वहतः । अप्रति-धृष्ट-शवसम् । ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् । उप-याम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । एषः । ते । योनिः । इन्द्राय । त्वा । षोडशिने