अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम॒ स्वाहा॑
agné náya supáthā rāyé asmā́n víśvāni deva vayúnāni vidvā́n | yuyódhya asmáj juhurāṇám éno bhū́yiṣṭhāṃ te náma uktíṃ vidhema svā́hā ||
अग्ने नय सुपथा रायेस्मान्, देव विश्वानि वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो; भूयिष्ठां ते नम उक्तिं विधेम—स्वाहा।
अग्ने । नय । सु-पथा । रायॆ । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् । युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नमः । उक्तिम् । विधेम । स्वाहा ।