दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नि यु॑नज्मि । अ॒द्भ्यस्त्वौ॑षधी॒भ्योऽनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः । अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि
devásya tvā savitúḥ prasavé’śvinór bāhúbhyāṃ pūṣṇó hástābhyām | agnīṣómābhyāṃ júṣṭaṃ ní yunajmi | adbhyás tvā́uṣadhī́bhyo’nu tvā mātā́ manyatām ánu pitā́’nu bhrā́tā sagárbhyo’nu sákhā sayū́thyaḥ | agnīṣómābhyāṃ tvā júṣṭaṃ prókṣāmi ||
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्। अग्नीषोमाभ्यां जुष्टं नि युनज्मि। अद्भ्यस्त्वौषधीभ्योऽनु त्वा माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्यः। अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि।
दे॒वस्य॑ । त्वा । सवि॒तुः । प्र॒स॒वे । अ॒श्विनोः॑ । बा॒हुभ्यां॑ । पू॒ष्णः । हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्याम् । जुष्ट॑म् । नि । यु॒न॒ज्मि । अ॒द्भ्यः । त्वा । ओ॒षधी॒भ्यः । अनु॑ । त्वा । मा॒ता । म॒न्य॒ता॒म् । अनु॑ । पि॒ता । अनु॑ । भ्राता॑ । स॒-ग॒र्भ्यः । अनु॑ । सखा॑ । स॒-यू॒थ्यः । अ॒ग्नीषोमा॑भ्याम् । त्वा । जुष्ट॑म् । प्रोक्षा॑मि