इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वा ऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा ऽभिमाति॒घ्ने । श्ये॒नाय॑ त्वा सोम॒भृते॒ ऽग्नये॑ त्वा रायस्पोष॒दे
índrāya tvā vásumate rudrávate | índrāya tvā ādityávate | índrāya tvā ’bhimāti-ghné | śyénāya tvā soma-bhṛté | agnáye tvā rāyás-poṣadé
इन्द्राय त्वा वसुमते रुद्रवत आददे। इन्द्राय त्वा आदित्यवत आददे। इन्द्राय त्वा अभिमातिघ्ने आददे। श्येनाय त्वा सोमभृते आददे। अग्नये त्वा रायस्पोषदे आददे।
इन्द्रा॑य । त्वा॒ । वसु॑मते । रु॒द्रव॑ते । इन्द्रा॑य । त्वा॒ । आ॒दि॒त्यव॑ते । इन्द्रा॑य । त्वा॒ । अ॒भि॒मा॒ति॒-घ्ने । श्ये॒नाय॑ । त्वा॒ । सो॒म॒-भृते॑ । अ॒ग्नये॑ । त्वा॒ । रा॒यः॒-पो॒ष॒दे