हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वमि॒मम॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥
hṛdé tvā mánase tvā divé tvā sū́ryāya tvā | ūrdhvám imám adhvaráṃ diví devéṣu hótrā yaccha ||
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा। ऊर्ध्वमिममध्वरं दिवि देवेषु होत्रा यच्छ।
हृदे । त्वा । मनसे । त्वा । दिवे । त्वा । सूर्याय । त्वा । ऊर्ध्वम् । इमम् । अध्वरम् । दिवि । देवेषु । होत्रा । यच्छ ।