उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्यूर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीय॑: स॒म्राड॑सि कृ॒शानु॑: परि॒षद्यो॑ऽसि॒ पव॑मानो॒ नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टो॒ऽसि हव्य॒सूद॑न ऋ॒त॒धा॑माऽसि॒ स्व॒र्ज्योतिः
u̱śíg asi kavír aṅghā̍rir asi bambhā̍rir avasyū́r asi du̍vasvān chundhyū́r asi mārjālī́yaḥ | sa̱mrā́ḍ asi kṛśā́nuḥ pariṣa̱dyò ’si pávamāno nábho ’si pratákvā mṛṣṭó ’si havya̱sū́dana ṛta̱dhā́mā ’si sva̱rjyótiḥ
उशिगसि कविरङ्घारिरसि बम्भारिरवस्यूरसि दुवस्वाञ्छुन्ध्यूरसि मार्जालीयः सम्राडसि कृशानुः परिषद्योऽसि पवमानो नभोऽसि प्रतक्वा मृष्टोऽसि हव्यसूदन ऋतधामाऽसि स्वर्ज्योतिः।
उ॒शिक् असि । क॒विः । अङ्घा॑रिः असि । बम्भा॑रिः । अव॒स्यूः॑ असि । दुव॑स्वान् । छु॒न्ध्युः॑ असि । मार्जा॒लीयः॑ । स॒म्राट् असि । कृ॒शानुः॑ । परि॒षद्यः॑ असि । पव॑मानः । नभः॑ असि । प्र॒तक्वा॑ । मृ॒ष्टः॑ असि । हव्य॒सूद॑नः । ऋ॒त-धा॑माः असि । स्वः-॒ज्योतिः॑ ।