अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा
agnés tanū́r asi víṣṇave tvā | sómasya tanū́r asi víṣṇave tvā | átither ātithyám asi víṣṇave tvā | śyenā́ya tvā somabhṛ́te víṣṇave tvā | agnáye tvā rāyaspoṣadé víṣṇave tvā
अग्नेस्तनूरसि, विष्णवे त्वा। सोमस्य तनूरसि, विष्णवे त्वा। अतिथेरातिथ्यमसि, विष्णवे त्वा। श्येनाय त्वा, सोमभृते, विष्णवे त्वा। अग्नये त्वा, रायस्पोषदे, विष्णवे त्वा।
अग्नेः । तनूः । असि । विष्णवे । त्वा । सोमस्य । तनूः । असि । विष्णवे । त्वा । अतिथेः । आतिथ्यम् । असि । विष्णवे । त्वा । श्येनाय । त्वा । सोम-भृते । विष्णवे । त्वा । अग्नये । त्वा । रायस्-पोष-दे । विष्णवे । त्वा ।