उ॒ग्रँल्लोहि॑तेन मि॒त्रᳪ सौ॑व्रत्येन रु॒द्रं दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान् प्र॒मुदा॑ । भ॒वस्य॒ कण्ठ्य॑ᳪ रु॒द्रस्या॑न्तः पा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पते॑: पुरी॒तत्
ugráṁ lóhitena mitráṁ sauvratyná rudráṁ daurvrátyenéndraṁ prakrīḍéna marúto bálena sā́dhyān pramúdā | bhavásya kaṇṭhyàṁ rudrásyāntaḥpārśvyàṁ mahādevásya yákṛc charvásya vaniṣṭhúḥ paśupáteḥ purī́tat
उग्रं लोहितेन, मित्रं सौव्रत्येन, रुद्रं दौर्व्रत्येन, इन्द्रं प्रक्रीडेन, मरुतो बलेन, साध्यान् प्रमुदा। भवस्य कण्ठ्यं, रुद्रस्य अन्तःपार्श्व्यं, महादेवस्य यकृत्, शर्वस्य वनिष्ठुः, पशुपतेः पुरीतत्।
उ॒ग्रम् । लोहि॑तेन । मि॒त्रम् । सौ॑व्रत्येन । रु॒द्रम् । दौर्व्र॑त्येन । इन्द्रम् । प्र॒क्री॒डेन॑ । म॒रुतः॑ । बले॑न । सा॒ध्यान् । प्र॒मुदा॑ । भ॒वस्य॑ । कण्ठ्य॑म् । रु॒द्रस्य॑ । अ॒न्तः॒पा॒र्श्व्य॑म् । म॒हा॒दे॒वस्य॑ । यकृत् । श॒र्वस्य॑ । वनि॒ष्ठुः । प॒शु॒पतेः॑ । पुरी॒तत्