पि॒ता नो॑ऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अतु॒ मा मा॑ हिᳪसीः । त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धेहि प्र॒जाम॒स्मासु॑ धे॒ह्यरि॑ष्टा॒ऽहᳪ स॒ह प॑त्या भूयासम्
pitā nó ’si pitā nó bodhi námas te atú mā mā hiṃsīḥ | tváṣṭṛ-mantas tvā sapema putrā́n paśū́n máyī dhehi prajā́m asmā́su dhehy áriṣṭā ’háṃ sahá patyā bhūyāsam
पिता नोऽसि पिता नो बोधि। नमस्ते, मा मा हिंसीः। त्वष्टृमन्तस्त्वा सपेम; पुत्रान् पशून् मयि धेहि, प्रजामस्मासु धेहि। अरिष्टा अहं सह पत्या भूयासम्।
पि॒ता । नः॑ । अ॒सि॒ । पि॒ता । नः॑ । बोधि॒ । नमः॑ । ते॒ । अ॒तु॒ । मा । मा॑ । हिᳪसीः । त्वष्टृ॑-मन्तः । त्वा॒ । स॒पे॒म॒ । पु॒त्रान् । प॒शून् । मयि॑ । धेहि । प्र॒जाम् । अ॒स्मासु॑ । धे॒हि॒ । अरि॑ष्टा । अ॒हम् । स॒ह । प॒त्या॒ । भू॒या॒स॒म्