यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु । शं नो॑ भवतु॒ भुव॑नस्य॒ यस्पति॑:
yán me chidráṃ cákṣuṣo hṛ́dayasya mánaso vā́titṛṇṇaṃ bṛ́haspátir me tád dadhātu | śáṃ no bhavatu bhúvanasya yás pátiḥ
यन्मे चिद्रं चक्षुषो हृदयस्य मनसो वा—यद् वातितृण्णं व्याकुलं—तद् बृहस्पतिः मे सम्यक् दधातु। भुवनस्य यः पतिः स नः शं भवतु।
यत् । मे । छिद्रम् । चक्षुषः । हृदयस्य । मनसः । वाति-तृण्णम् । बृहस्पतिः । मे । तत् । दधातु । शम् । नः । भवतु । भुवनस्य । यः । पतिः ।