अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒: सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वत॒: प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः
áśvāvātīr gómatīr na uṣā́so vī́ravātīḥ sádam ucchantu bhadrā́ḥ | ghr̥táṁ dúhānā viśvátáḥ prá-pītā yūyáṁ pāta svastíbhíḥ sádā naḥ
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः॥
अश्वा-वतीः । गो-मतीः । नः । उषासः । वीर-वतीः । सदम् । उच्छन्तु । भद्राः । घृतम् । दुहानाः । विश्वतः । प्र-पीताः । यूयम् । पात । स्वस्ति-भिः । सदा । नः