यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । आपो॑ ह॒ यद्बृ॑ह॒तीर्यश्चि॒दाप॑:
yáṃ krándasī́ ávasā tastabhāné abhyáikṣetāṃ mánasā réjamāne | yátrādhi sū́ra úd ito vibhā́ti kásmai devā́ya havíṣā vidhema | ā́po ha yád bṛhatī́r yáś cid ā́paḥ
यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने । यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम । आपो ह यद्बृहतीर्यश्चिदापः ।
यम् । क्रन्दसी इति । अवसा । तस्तभाने इति । अभि-ऐक्षेताम् । मनसा । रेजमाने इति । यत्र । अधि । सूर्यः । उदितः । विभाति । कस्मै । देवाय । हविषा । विधेम । आपः । ह । यत् । बृहतीः । यः । चित् । आपः ।