ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्यं॒ म॒रुद्भ्यो॒ वैश्यं॒ तप॑से शू॒द्रं तम॑से॒ तस्क॑रं नार॒काय॑ वीर॒हणं॑ पा॒प्मने॑ क्ली॒बमा॑क्र॒याया॑ अयो॒गूं कामा॑य पुँश्च॒लूमति॑क्रुष्टाय माग॒धम्
bráhmaṇe brāhmaṇáṃ kṣatrā́ya rājanyàṃ marúdbhyo vaíśyaṃ tápase śūdráṃ támase táskaraṃ nārakā́ya vīraháṇaṃ pā́pmane klībám ākrayā́yā ayogū́ṃ kā́māya puṃścalū́m atikruṣṭā́ya māgadhám
ब्रह्मणे ब्राह्मणं, क्षत्राय राजन्यं, मरुद्भ्यो वैश्यं, तपसे शूद्रं, तमसे तस्करं, नारकाय वीरहणं, पाप्मने क्लीबम्, आक्रयाया अयोगूं, कामाय पुँश्चलूम्, अतिक्रुष्टाय मागधम्।
ब्रह्म॑णे । ब्रा॒ह्म॒णम् । क्ष॒त्राय॑ । रा॒ज॒न्यम् । म॒रुद्भ्यः॑ । वैश्य॑म् । तप॑से । शू॒द्रम् । तम॑से । तस्क॑रम् । ना॒र॒काय॑ । वी॒र॒हण॑म् । पा॒प्मने॑ । क्ली॒बम् । आ॒क्र॒यायै॑ । अ॒यो॒गूम् । कामा॑य । पुं॒श्च॒लूम् । अ॒ति॒क्रु॒ष्टाय॑ । मा॒ग॒धम् ।