अ॒क्ष॒रा॒जाय॑ कित॒वं कृ॒ताया॑दिनवद॒र्शं त्रेता॑यै क॒ल्पिनं॑ द्वा॒परा॑याधिक॒ल्पिन॑मास्क॒न्दाय॑ सभास्था॒णुं मृ॒त्यवे॑ गोव्य॒च्छमन्त॑काय गोघा॒तं क्षु॒धे यो गां वि॑कृ॒न्तन्तं॒ भिक्ष॑माण उप॒तिष्ठ॑ति दुष्कृ॒ताय॒ चर॑काचार्यं पा॒प्मने॑ सैल॒गम्
akṣarājā́ya kitaváṃ kṛtā́ya dinavadarśáṃ tretā́yai kálpinaṃ dvāparā́yādhikálpinam āskandā́ya sabhāsthā́ṇuṃ mṛtyáve govyáccham ántakāya goghātáṃ kṣúdhé yó gā́ṃ vikṛ́ntantaṃ bhíkṣamāṇa upatíṣṭhati duṣkṛtā́ya cárakācāryaṃ pā́pmane sailagám
अक्षराजाय कितवं कृताय दिनवदर्शं त्रेतायै कल्पिनं द्वापराय अधिकल्पिनम्; आस्कन्दाय सभास्थाणुं मृत्यवे गोव्यच्छम् अन्तकाय गोघातम्; क्षुधे—यो गां विकृन्तन्तं भिक्षमाण उपतिष्ठति तम्; दुष्कृताय चरकाचार्यं पाप्मने सैलगम् (नियोजयामि)।
अक्ष-राजाय । कितवम् । कृताय । दिन-वदर्शम् । त्रेतायै । कल्पिनम् । द्वापराय । अधिकल्पिनम् । आस्कन्दाय । सभा-स्थाणुम् । मृत्यवे । गोव्यच्छम् । अन्तकाय । गोघातम् । क्षुधे । यः । गाम् । विकृन्तन्तम् । भिक्षमाणः । उपतिष्ठति । दुष्कृताय । चरक-आचार्यम् । पाप्मने । सैलगम् ।