दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् । बृ॒ह॒त्या छन्द॑सेन्द्रि॒यᳪ श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑
devī́ joṣṭrī́ vasudhítī devám índraṃ vayo̱dhásaṃ devī́ devám avardhatām | bṛhatyā́ chándasendriyáṃ śrótram índre̱ vayo̱ dádhad vasuváne vasudhéyasya vītā́ṃ yája
देवी जोष्ट्री वसुधिती च वयोधसे दिव्ये इन्द्रं देवं वर्धयताम्। बृहत्या छन्दसा इन्द्रियं बलं स्थापयामि; इन्द्रे श्रोत्रं वयः दधामि। वसुवने वसुधेयस्य स्थापनाय उभे आगत्य वीतां यज।
दे॒वी । जोष्ट्री॑ । वसु॑धिती । दे॒वम् । इन्द्र॑म् । व॒यो॒धसम् । दे॒वी । दे॒वम् । अ॒व॒र्ध॒ता॒म् । बृ॒ह॒त्या । छन्द॑सा । इ॒न्द्रि॒यम् । श्रोत्रम् । इन्द्रे॑ । व॒यः । दध॑त् । व॒सु॒वने॑ । व॒सु॒धेय॑स्य । वी॒ता॒म् । यज॑