होता॑ यक्षत्सु॒रेत॑सं॒ त्वष्टा॑रं पुष्टि॒वर्ध॑नᳪ रू॒पाणि॒ बिभ्र॑तं॒ पृथ॒क् पुष्टि॒मिन्द्रं॑ वयो॒धस॑म् । द्वि॒पदं॒ छन्द॑ इन्द्रि॒यमु॒क्षाणं॒ गां न वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat-surétasaṃ tváṣṭāraṃ puṣṭí-várdhanaṃ rūpā́ṇi bíbhrataṃ pṛthák puṣṭím índraṃ vayódhasam | dvipádaṃ chánda indríyam ukṣā́ṇaṃ gā́ṃ na váyo dádhad vétv ā́jyasya hótar yája
होता यक्षत् सुरेतसं त्वष्टारं पुष्टिवर्धनं पृथग्रूपाणि बिभ्रतम्; इन्द्रं च वयोधसम्। द्विपदं छन्दः, इन्द्रियम् उक्षाणम्; गां न वयो दधद् एतु।—हे होतः, आज्यस्य यज।
होता । यक्षत् । सु-रेतसम् । त्वष्टारम् । पुष्टि-वर्धनम् । रूपाणि । बिभ्रतम् । पृथक् । पुष्टिम् । इन्द्रम् । वयः-धसम् । द्वि-पदम् । छन्दः । इन्द्रियम् । उक्षाणम् । गाम् । न । वयः । दधत् । वेतु । आज्यस्य । होतः । यज ।