होता॑ यक्ष॒त्तनू॒नपा॑तमु॒द्भिदं॒ यं गर्भ॒मदि॑तिर्द॒धे शुचि॒मिन्द्रं॑ वयो॒धस॑म् । उ॒ष्णिहं॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाहं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat tanūnapātam udbhídaṃ yáṃ gárbham áditiḥ dadhé śucím índraṃ vayodhásam | uṣṇíhaṃ chánda indriyáṃ dityavāháṃ gā́ṃ váyo dádhad vétv ā́jyasya hótar yája
होता यक्षत् तनूनपातम् उद्भिदं यं गर्भम् अदितिर्दधे—शुचिम् इन्द्रं वयोधसम्। उष्णिक् छन्दः; अत्रेन्द्रियं बलम्। गां वयो दधत् आज्यस्य समीपं वेतु; होतः, यज।
होता । यक्षत् । तनूनपातम् । उद्भिदम् । यम् । गर्भम् । अदितिः । दधे । शुचिम् । इन्द्रम् । वयोधसम् । उष्णिहम् । छन्दः । इन्द्रियम् । दित्यवाहम् । गाम् । वयः । दधत् । वेतु । आज्यस्य । होतः । यज