यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथ॑:
yán nirṇíjā rékṇasā prā́vṛtasya rātíṃ gṛbhītā́ṃ múkhato náyanti | súprāṅjo mémyad viśvárūpa indrāpūṣṇóḥ priyám ápy eti páthaḥ
यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृहीतां मुखतो नयन्ति। सुप्राङ्जो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः॥
यत् । नि॒र्णिजा॑ । रेक्ण॑सा । प्रा॒वृ॑तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय॑न्ति । सु॒प्रा॑ङ॒जः । मे॒म्य॑त् । वि॒श्वरू॑पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि॑ । ए॒ति॒ । पाथ॑ः