ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑म॒ᳪ सर॑: । इन्द्र॑: पृथिव्यै॒ वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते
bráhma sū́rya-samaṃ jyótir dyáuḥ samudrá-samaṃ sáraḥ | índraḥ pṛthivyái varṣī́yān gós tu mā́trā ná vidyate ||
ब्रह्म सूर्यसमं ज्योतिः; द्यौः समुद्रसमं सरः। इन्द्रः पृथिव्याः वर्षीयान्; गोस्तु नूनं मात्रा न विद्यते।
ब्रह्म । सूर्य-समम् । ज्योतिः । द्यौः । समुद्र-समम् । सरः । इन्द्रः । पृथिव्यै । वर्षीयान् । गोः । तु । मात्रा । न । विद्यते ।