उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमा॑स्ते महि॒मा । यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्य॒: स्वाहा॑
upayā́magṛhīto ’si prajā́pataye tvā júṣṭaṁ gṛhṇāmi | eṣá te yóniś candrámās te mahimā́ | yás te rā́trau saṁvatsaré mahimā́ sambabhū́va yás te pṛthivyā́m agnáu mahimā́ sambabhū́va yás te nákṣatreṣu candrámasi mahimā́ sambabhū́va tásmai te mahímne prajā́pataye devébhyaḥ svā́hā
उपयामगृहीतोऽसि। प्रजापतये त्वा जुष्टं गृह्णामि। एष ते योनिः—चन्द्रमास्ते महिमा। यस्ते रात्रौ संवत्सरे महिमा सम्बभूव, यस्ते पृथिव्यामग्नौ महिमा सम्बभूव, यस्ते नक्षत्रेषु चन्द्रमसि महिमा सम्बभूव—तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा।
उप-याम-गृहीतः । असि । प्रजापतये । त्वा । जुष्टम् । गृह्णामि । एषः । ते । योनिः । चन्द्रमाः । ते । महिमा । यः । ते । रात्रौ । संवत्सरे । महिमा । सम्बभूव । यः । ते । पृथिव्याम् । अग्नौ । महिमा । सम्बभूव । यः । ते । नक्षत्रेषु । चन्द्रमसि । महिमा । सम्बभूव । तस्मै । ते । महिम्ने । प्रजापतये । देवेभ्यः । स्वाहा ।