पृ॒थि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्य॒: स्वाहा॒ ऽद्भ्यः स्वाहौ॑षधीभ्य॒: स्वाहा॒ वन॒स्पति॑भ्य॒: स्वाहा॑ परिप्ल॒वेभ्य॒: स्वाहा॑ चराच॒रेभ्य॒: स्वाहा॑ सरीसृ॒पेभ्य॒: स्वाहा॑
pṛthivyái svāhā | ’ntárikṣāya svāhā | divé svāhā | sū́ryāya svāhā | candrā́ya svāhā | nákṣatrebhyaḥ svāhā | ’dbhyaḥ svāhā | óṣadhībhyaḥ svāhā | vanaspátibhyaḥ svāhā | pariplavébhyaḥ svāhā | carācarébhyaḥ svāhā | sarīsṛpébhyaḥ svāhā |
पृथिव्यै स्वाहा; अन्तरिक्षाय स्वाहा; दिवे स्वाहा; सूर्याय स्वाहा; चन्द्राय स्वाहा; नक्षत्रेभ्यः स्वाहा; अद्भ्यः स्वाहा; औषधीभ्यः स्वाहा; वनस्पतिभ्यः स्वाहा; परिप्लवेभ्यः स्वाहा; चराचरेभ्यः स्वाहा; सरीसृपेभ्यः स्वाहा।
पृथिव्यै । स्वाहा । अन्तरिक्षाय । स्वाहा । दिवे । स्वाहा । सूर्याय । स्वाहा । चन्द्राय । स्वाहा । नक्षत्रेभ्यः । स्वाहा । अद्भ्यः । स्वाहा । ओषधीभ्यः । स्वाहा । वनस्पतिभ्यः । स्वाहा । परिप्लवेभ्यः । स्वाहा । चराचरेभ्यः । स्वाहा । सरीसृपेभ्यः । स्वाहा ।