आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा रा॒ष्ट्रे रा॑ज॒न्यः शूर॑ इष॒व्योऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर्वोढा॑न॒ड्वाना॒शुः सप्ति॒: पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवास्य यज॑मानस्य वी॒रो जा॑यतां॒ निका॒मे-नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो न॑: कल्पताम्
ā́ brahman brāhmaṇó brahmavarcásī jāyatām ā́ rāṣṭré rājanyáḥ śū́ra iṣavyò’tivyādhī mahārathó jāyatāṃ dógdhrī dhenúr vóḍhā’naḍvān āśúḥ saptíḥ purándhir yóṣā jiṣṇúr ratheṣṭhā́ḥ sabhéyo yúvā’sya yájamānasya vīró jāyatāṃ nikā́me-nikā́me naḥ párjanyo varṣatu phálavatyo na óṣadhayaḥ pacyantāṃ yogakṣemó naḥ kalpatām
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम्। आ राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायताम्। दोग्ध्री धेनुर्वोढा नड्वानाशुः सप्तिः। पुरन्धिर्योषा। जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम्। निका॒मे-निकामे नः पर्जन्यो वर्षतु। फलवत्यो न ओषधयः पच्यन्ताम्। योगक्षेमो नः कल्पताम्।
आ । ब्रह्मन् । ब्राह्मणः । ब्रह्मवर्चसी । जायताम् । आ । राष्ट्रे । राजन्यः । शूरः । इषव्यः । अतिव्याधी । महारथः । जायताम् । दोग्ध्री । धेनुः । वोढा । अनड्वान् । आशुः । सप्तिः । पुरन्धिः । योषा । जिष्णुः । रथेष्ठाः । सभेयः । युवा । अस्य । यजमानस्य । वीरः । जायताम् । निकामे-निकामे । नः । पर्जन्यः । वर्षतु । फलवत्यः । नः । ओषधयः । पच्यन्ताम् । योगक्षेमः । नः । कल्पताम्