पृ॒ष्ठीर्मे॑ रा॒ष्ट्रमु॒दर॒मᳪसौ॑ ग्री॒वाश्च॒ श्रोणी॑ । ऊ॒रू अ॑र॒त्नी जानु॑नी॒ विशो॒ मेऽङ्गा॑नि स॒र्वत॑ः ।
pṛṣṭhī́r me rāṣṭrám udáram aṁsaú grīvā́ś ca śróṇī | ūrū́ aratnī́ jānúnī víśo me ’ṅgā́ni sarvátas ||
पृष्ठी मे राष्ट्रम्, उदरम् अन्तरिक्षम्; अंसौ ग्रीवाश्च श्रोणी च। ऊरू अरत्नी जानुनी—विशो मेऽङ्गानि सर्वतः।
पृ॒ष्ठीः । मे॒ । रा॒ष्ट्रम् । उ॒दरम् । अंसौ॑ । ग्री॒वाः । च॒ । श्रोणी॑ । ऊ॒रू इति॑ । अ॒र॒त्नी इति॑ । जानु॑नी इति॑ । विशः॑ । मे॒ । अङ्गा॑नि । स॒र्वतः॑ ।