प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑ । प्रत्यङ्गे॑षु॒ प्रति॑ तिष्ठाम्या॒त्मन् प्रति॑ प्रा॒णेषु॒ प्रति॑ तिष्ठामि पु॒ष्टे प्रति॒ द्यावा॑पृथि॒व्योः प्रति॑ तिष्ठामि य॒ज्ञे।। १ ०।। त्र॒या दे॒वा एका॑दश त्रयस्त्रि॒ᳪशाः सु॒राध॑सः । बृह॒स्पति॑पुरोहिता दे॒वस्य॑ सवि॒तुः स॒वे । दे॒वा दे॒वैर॑वन्तु मा ।
práti kṣatré práti tiṣṭhāmi rāṣṭré praty áśveṣu práti tiṣṭhāmi góṣu | praty áṅgeṣu práti tiṣṭhāmy ātmán práti prāṇéṣu práti tiṣṭhāmi púṣṭe práti dyā́vā-pṛthivyóḥ práti tiṣṭhāmi yajñé || trā́yā devā́ ekā́daśa trayastriṃśā́ḥ surā́dhasaḥ | bṛ́haspáti-purohitā devásya savitúḥ savé | devā́ deváir avantu mā ||
प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रति तिष्ठामि गोषु। प्रत्यङ्गेषु प्रति तिष्ठाम्यात्मन् प्रति प्राणेषु प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि यज्ञे। त्रयो देवा एकादश त्रयस्त्रिंशाः सुराधसः। बृहस्पतिपुरोहिता देवस्य सवितुः सवे। देवा देवैरवन्तु मा।
प्रति॑ । क्ष॒त्रे । प्रति॑ । ति॒ष्ठा॒मि॒ । रा॒ष्ट्रे । प्रति॑ । अश्वे॑षु । प्रति॑ । ति॒ष्ठा॒मि॒ । गोषु॑ । प्रति॑ । अङ्गे॑षु । प्रति॑ । ति॒ष्ठा॒मि॒ । आ॒त्मन् । प्रति॑ । प्रा॒णेषु॑ । प्रति॑ । ति॒ष्ठा॒मि॒ । पु॒ष्टे । प्रति॑ । द्यावा॑पृथि॒व्योः । प्रति॑ । ति॒ष्ठा॒मि॒ । य॒ज्ञे । त्र॒याः । दे॒वाः । एका॑दश । त्र॒यः-त्रि॒ᳪशाः । सु॒राध॑सः । बृह॒स्पति॑-पुरोहिताः । दे॒वस्य॑ । स॒वि॒तुः । स॒वे । दे॒वाः । दे॒वैः । अ॒व॒न्तु॒ । मा॒ ।