तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि वी॒र्य॒मसि वी॒र्यं मयि॑ धेहि बल॑मसि॒ बलं॒ मयि॑ धे॒ह्योजो॒ऽस्योजो॒ मयि॑ धेहि म॒न्युर॑सि म॒न्युं मयि॑ धेहि॒ सहो॑ऽसि॒ सहो॒ मयि॑ धेहि
téjo ’si téjo máyi dhehi vīryàm asi vīryàṃ máyi dhehi bálam asi bálaṃ máyi dhehy ójo ’sy ójo máyi dhehi mányur asi mányuṃ máyi dhehi sáho ’si sáho máyi dhehi
त्वं तेजोऽसि; मयि तेजो धेहि। त्वं वीर्यमसि; मयि वीर्यं धेहि। त्वं बलमसि; मयि बलं धेहि। त्वम् ओजोऽसि; मयि ओजो धेहि। त्वं मन्युरसि; मयि मन्युं धेहि। त्वं सहोऽसि; मयि सहो धेहि।
तेजः । असि । तेजः । मयि । धेहि । वीर्यम् । असि । वीर्यम् । मयि । धेहि । बलम् । असि । बलम् । मयि । धेहि । ओजः । असि । ओजः । मयि । धेहि । मन्युः । असि । मन्युम् । मयि । धेहि । सहः । असि । सहः । मयि । धेहि ।