दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस॑ᳪ शु॒क्रेण॑ शु॒क्रं व्य॑पिबत् पय॒: सोमं॑ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
dṛṣṭvā parisrutó rásaṃ śukréṇa śukráṃ vyàpibat páyaḥ sómaṃ prajā́patiḥ | ṛténa satyám indriyáṃ vipā́naṃ śukrám ándhasa índrasyendriyám idáṃ páyo 'mṛ́taṃ mádhu
दृष्ट्वा परिस्रुतो रसँ शुक्रेण शुक्रं व्यपिबत् पयः सोमं प्रजापतिः । ऋतेन सत्यं इन्द्रियं विपानँ शुक्रमन्धसः इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ।
दृ॒ष्ट्वा । प॒रि॒स्रुतः॑ । रस॑म् । शु॒क्रेण॑ । शु॒क्रम् । वि॒-अपि॑बत् । पयः॑ । सोम॑म् । प्र॒जाप॑तिः । ऋ॒तेन॑ । स॒त्यम् । इ॒न्द्रि॒यम् । वि॒पान॑म् । शु॒क्रम् । अन्ध॑सः । इन्द्र॑स्य । इ॒न्द्रि॒यम् । इ॒दम् । पयः॑ । अ॒मृत॑म् । मधु॑