अन्ना॑त्परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्य॑पिबत् क्ष॒त्रं पय॒: सोमं॑ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
ánnāt parisrutó rásaṃ bráhmaṇā vyàpibat kṣatráṃ páyaḥ sómam prajāpátiḥ | ṛténá satyám indriyáṃ vipānáṃ śukrám ándhasa índrasyendriyám idáṃ páyo’mṛtáṃ mádhu
अन्नात् परिस्रुतं रसं ब्रह्मणा व्यपिबत् प्रजापतिः—क्षत्रं पयः सोमम्। ऋतेन सत्येन इन्द्रियं (इन्द्रस्य वीर्यम्) लभ्यते—विपानं शुक्रमन्धसः। इन्द्रस्येदमिन्द्रियं पयः—अमृतं मधु।
अन्ना॑त् । परि॒स्रुतः । रसम् । ब्रह्म॑णा । वि॒-अपि॒ब॒त् । क्ष॒त्रम् । पयः॑ । सोम॑म् । प्र॒जाप॑तिः । ऋ॒तेन॑ । स॒त्यम् । इ॒न्द्रि॒यम् । वि॒पान॑म् । शु॒क्रम् । अन्ध॑सः । इन्द्र॑स्य । इ॒न्द्रि॒यम् । इ॒दम् । पयः॑ । अ॒मृत॑म् । मधु॑