सोमो॒ राजा॒मृत॑ᳪ सु॒त ऋ॑जी॒षेणा॑जहान्मृ॒त्युम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
sómo rājā́mṛ́taṃ sutá ṛjīṣéṇājahān mṛtyúm | ṛténa satyám indriyáṃ vipā́naṃ śukrám ándha índrasyendriyám idáṃ páyo ’mṛ́taṃ mádhu
सोमः राजा अमृतं सुतः ऋजीषेण मृत्युम् अजहत्। ऋतेन सत्यं इन्द्रियं विपानं शुक्रम् अन्धसः; इन्द्रस्य इन्द्रियम् इदं पयः—अमृतं मधु।
सोमः॑ । राजा॑ । अमृत॑म् । सु॒तः । ऋ॒जी॒षेणा॑ । अ॒ज॒हा॒न् । मृ॒त्युम् । ऋ॒तेन॑ । स॒त्यम् । इ॒न्द्रि॒यम् । वि॒पान॑म् । शु॒क्रम् । अन्धः॑ । इन्द्र॑स्य । इ॒न्द्रि॒यम् । इ॒दम् । पयः॑ । अ॒मृत॑म् । मधु॑ ।