ऋ॒तं च॑ मेऽमृतं॑ च मे ऽय॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम्
ṛtáṃ ca me ’mṛ́taṃ ca me ’yákṣmaṃ ca me ’nā́mayac ca me jīvā́tuś ca me dīrghāyutváṃ ca me ’namitrám ca me ’bháyaṃ ca me súkhaṃ ca me śáyanaṃ ca me sūṣā́ś ca me sudínaṃ ca me yajñéna kalpantām
ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुखं च मे शयनं च मे सूषाश्च मे सुदिनं च मे यज्ञेन कल्पन्ताम्।
ऋतम् च मे । अमृतम् च मे । अयक्ष्मम् च मे । अनामयत् च मे । जीवातुः च मे । दीर्घायुत्वम् च मे । अनमित्रम् च मे । अभयम् च मे । सुखम् च मे । शयनम् च मे । सूषाः च मे । सुदिनम् च मे । यज्ञेन कल्पन्ताम् ।