सु॒षु॒म्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ भे॒कुर॑यो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑
suṣúmṇaḥ sū́rya-raśmíś candrámā gandharvás tásya nákṣatrāṇy apsáraso bhekúrayō nā́ma | sá na idáṁ bráhma kṣatráṁ pātu tásmai svā́hā vā́ṭ tā́bhyaḥ svā́hā
सुषुम्णः सूर्यरश्मिः; चन्द्रमा गन्धर्वः। तस्य नक्षत्राणि अप्सरसः ‘भेकुरयः’ नाम। स न इदं ब्रह्म क्षत्रं च पातु। तस्मै स्वाहा। वाट्। ताभ्यः स्वाहा।
सु॒षु॒म्णः । सूर्य॑-रश्मिः । च॒न्द्रमा॑ । गन्ध॒र्वः । तस्य॑ । नक्ष॑त्राणि । अ॒प्स॒रसः॑ । भे॒कुर॑यः । नाम॑ । सः । नः॑ । इ॒दम् । ब्रह्म॑ । क्ष॒त्रम् । पा॒तु॒ । तस्मै॑ । स्वाहा॑ । वाट् । ताभ्यः॑ । स्वाहा॑