विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒साऽऽग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे
víśve adyá marúto víśva ūtí víśve bhavantv agnáyaḥ samíddhāḥ | víśve no devā́ avásā́gamentu víśvam astu dráviṇaṃ vā́jo asmè
विश्वेऽद्य मरुतो नो विश्व ऊतयः स्युः; विश्वेऽग्नयः समिद्धाः शोभन्ताम्; विश्वे नो देवाः अवसाऽऽगच्छन्तु; विश्वं द्रविणं वाजश्चास्मे अस्तु।
विश्वे । अद्य । मरुतः । विश्वे । ऊती । विश्वे । भवन्तु । अग्नयः । समिद्धाः । विश्वे । नः । देवाः । अवसा । आगमन्तु । विश्वम् । अस्तु । द्रविणम् । वाजः । अस्मे ।