अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषा॑: कल्या॒ण्यः स्मय॑मानासो अ॒ग्निम् । घृ॒तस्य॒ धारा॑: स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः
abhí pravanta sámaneva yóṣāḥ kalyāṇyàḥ smáyamānāso agním | ghṛtásya dhā́rāḥ samídho nasanta tā́ juṣāṇó haryati jātávedāḥ ||
अभि प्रवन्त समानेव योषाः कल्याण्यः स्मयमानासोऽग्निम्। घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः॥
अ॒भि । प्र॒व॒न्त॒ । सम॑ना । इ॒व॒ । योषा॑ः । क॒ल्या॒ण्यः । स्मय॑मानासः । अ॒ग्निम् । घृ॒तस्य॑ । धारा॑ः । स॒मिधः॑ । न॒स॒न्त॒ । ताः । जु॒षा॒णः । ह॒र्य॒ति॒ । जा॒तवे॑दाः