इ॒मᳪ स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रपी॑नमग्ने सरि॒रस्य॒ मध्ये॑ । उत्सं॑ जुषस्व॒ मधु॑मन्तमर्वन्त्समु॒द्रिय॒ᳪ सद॑न॒मा वि॑शस्व
imáṁ stanám ūrjásvantaṁ dhayā́pāṁ prápīnam agne sarī́rasya mádhye | útsaṁ juṣasva mádhumantam arvan samudríyaṁ sádanaṁ ā́ viśasva ||
अग्ने, आपां प्रपीतमूर्जस्वन्तमिमं स्तनं शरीरस्य मध्ये धाय; अर्वन्, मधुमन्तमुत्सं जुषस्व; समुद्रियं सदनमाविशस्व।
इमम् । स्तनम् । ऊर्ज-स्वन्तम् । धय । अपाम् । प्र-पीनम् । अग्ने । सरीरस्य । मध्ये । उत्सम् । जुषस्व । मधु-मतम् । अर्वन् । समुद्रियम् । सदनम् । आ । विशस्व ।