यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रुवन्न॒यं च॒ ब्रह्म॑ण॒स्पति॑:
yásya kūrmó gṛhé havís tám agne vardhayā́ tvám | tásmai devā́ ádhi bruvan ayáṃ ca bráhmaṇaspátiḥ
यस्य कुर्मो गृहे हविस्तम्, अग्ने, त्वं वर्धय। तस्मै देवा अधि ब्रुवन्—अयं च ब्रह्मणस्पतिः।
यस्य । कुर्मः । गृहे । हविः । तम् । अग्ने । वर्धय । त्वम् । तस्मै । देवाः । अधि । ब्रुवन् । अयम् । च । ब्रह्मणस्पतिः ।